पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथ उपयातानां सारफल्ग्व्ऽर्घान्तरं प्रियाप्रियतां च विद्यात्, तथा विक्षेपसङ्क्षेपक्रयविक्रयप्रयोगकालान्
यच्च पण्यं प्रचुरं स्यात् तद् एकीकृत्यार्घं आरोपयेत्
प्राप्तेऽर्घे वाऽर्घान्तरं कारयेत्
स्वभूमिजानां राजपण्यानां एकमुखं व्यवहारं स्थापयेत्, परभूमिजानां अनेकमुखम्
उभयं च प्रजानां अनुग्रहेण विक्रापयेत्
स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत्
अजस्रपण्यानां काल उपरोधं सङ्कुलदोषं वा न उत्पादयेत्
बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन्
छेदानुरूपं च वैधरणं दद्युः
षोडशभागो मानव्याजी, विंशतिभागः तुलामानं, गण्यपण्यानां एकादशभागः
परभूमिजं पण्यं अनुग्रहेणावाहयेत्
नाविकसार्थवाहेभ्यश्च परिहारं आयतिक्षमं दद्यात्
अनभियोगश्चार्थेष्वागन्तूनां, अन्यत्र सभ्या उपकारिभ्यः
पण्याधिष्ठातारः पण्यमूल्यं एकमुखं काष्ठद्रोण्यां एकच्छिद्रापिधानायां निदध्युः
अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - इदं विक्रीतं, इदं शेषम् इति
तुलामानभाण्डं चार्पयेयुः
इति स्वविषये व्याख्यातम्
परविषये तु - पण्यप्रतिपण्ययोरर्घं मूल्यं चागमय्य शुल्कवर्तन्याऽऽतिवाहिकगुल्मतरदेयभक्तभागव्ययशुद्धं उदयं पश्येत्
असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत्
ततः सारपादेन स्थलव्यवहारं अध्वना क्षेमेण प्रयोजयेत्
अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेद् अनुग्रहार्थम्
आपदि सारं आत्मानं वा मोक्षयेत्
आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत
वारिपथे वा यानभागकपथ्य्ऽदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत
नदीपथे च विज्ञाय व्यवहारं चरित्रतः ।
यतो लाभः ततो गच्छेद् अलाभं परिवर्जयेत्