कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्याय उपस्थानान्युपलभेत्
सीताऽध्यक्ष उपनीतः सस्यवर्णकः सीता
पिण्डकरः षड्भागः सेनाभक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रम्
धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम्
सस्यवर्णानां अर्घान्तरेण विनिमयः परिवर्तकः
सस्ययाचनं अन्यतः प्रामित्यकम्
तद् एव प्रतिदानार्थं आपमित्यकम्
कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका
नष्टप्रस्मृतादिरन्यजातः
विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
तुलामानान्तरं हस्तपूरणं उत्करो व्याजी पर्युषितं प्रार्जितं च उपस्थानम् । इति
धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताऽध्यक्षे वक्ष्यामः
सर्पिस्तैलवसामज्जानः स्नेहाः
फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः
सैन्धवसामुद्रबिडयवक्षारसौवर्चल उद्भेदजा लवणवर्गः
क्षौद्रं मार्द्वीकं च मधु
इक्षुरसगुडमधुफाणितजाम्बवपनसानां अन्यतमो मेषशृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक इक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः
वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः
दधिधान्याम्लादिर्द्रवाम्लवर्गः
पिप्पलीमरिचशृङ्गिबेराऽजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः
शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः
ततोऽर्धं आपद्ऽर्थं जानपदानां स्थापयेद्, अर्धं उपयुञ्जीत
नवेन चानवं शोधयेत्
क्षुण्णघृष्टपिष्टभृष्टानां आर्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत
कोद्रवव्रीहीणां अर्धं सारः, शालीनां अर्धभाग ऊनः, त्रिभाग ऊनो वरकाणाम्
प्रियङ्गूणां अर्धं सारो नवभागवृद्धिश्च
उदारकः तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः
पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च
पाद ऊना कलायचमसी
मुद्गमाषाणां अर्धपाद ऊना
शौम्ब्यानां अर्धं सारः, त्रिभाग ऊनो मसूराणाम्
पिष्टं आमं कुल्माषाश्चाध्यर्धगुणाः
द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम्
कोद्रववरक उदारकप्रियङ्गूणां त्रिगुणं अन्नं, चतुर्गुणं व्रीहीणां, पञ्चगुणं शालीनाम्
तिमितं अपरान्नं द्विगुणं, अर्धाधिकं विरूढानाम्
पञ्चभागवृद्धिर्भृष्टानाम्
कलायो द्विगुणः, लाजा भरुजाश्च
षट्कं तैलं अतसीनाम्
निम्बकुशाम्रकपित्थादीनां पञ्चभागः
चतुर्भागिकाः तिलकुसुम्भमधूक इङ्गुदीस्नेहाः
कार्पासक्षौमाणां पञ्चपले पलं सूत्रम्
पञ्चद्रोणे शालीनां द्वादशाढकं तण्डुलानां कलभभोजनं, एकादशकं व्यालानां, दशकं औपवाह्यानां नवकं साम्नाह्यानां, अष्टकं पत्तीनां, सप्तकं मुख्यानां, षट्कं देवीकुमाराणां, पञ्चकं राज्ञां, अखण्डपरिशुद्धानां वा तुअण्डुलानां प्रस्थः
तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषः तैलस्य वा एकं आर्यभक्तं पुंसः
षड्भागः सूपः अर्धस्नेहं अवराणाम्
पाद ऊनं स्त्रीणाम्
अर्धं बालानाम्
मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः
तेन उत्तरं व्याख्यातम्
शाकानां अध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः
हस्त्य्ऽश्वयोः तद्ऽध्यक्षे विधाप्रमाणं वक्ष्यामः
बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषं अश्वविधानम्
विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा
द्विगुणं महिष उष्ट्राणाम्
अर्धद्रोणं खरपृषतरोहितानाम्
आढकं एणकुरङ्गाणाम्
अर्धाढकं अज एडकवराहाणां, द्विगुणं वा कणकुण्डकम्
प्रस्थोदनः शुनाम्
हंसक्रौञ्चमयूराणां अर्धप्रस्थः
शेषाणां अतो मृगपशुपक्षिव्यालानां एकभक्ताद् अनुमानं ग्राहयेत्
अङ्गारांः तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत्
कणिका दासकर्मकरसूपकाराणां, अतोऽन्यद् औदनिकापूपिकेभ्यः प्रयच्छेत्
तुलामानभाण्डं रोचनीदृषन्मुसल उलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्च उपकरणानि
मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः
उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः ।
मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च