श्लोक ०२-१४

Kautilya Arthashastra by Acharya Chankya
सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्
निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्
कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः
कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः
कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्
आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्
तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः
तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः
वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च
सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः
कर्तुर्द्विगुणः स-अपसारश्चेत्
अनपसारः कण्टकशोधनाय नीयेत
कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा
तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः
अन्यथा द्वादशपणो दण्डः
घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म
तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः
सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः
रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्
तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्
शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्
मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः
पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते
पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा
गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते
सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः
स एव पटलसम्पुटेष्वभ्युद्धार्यः
पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते
शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते
शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं च उत्तरवर्णकः
तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्
अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः
घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते
दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते
तयोः तापनं अवध्वंसनं वा शुद्धिः
स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते
तस्य क्वाथनं शुद्धिः
अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते
तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते
मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः
तस्य तापनं अवध्वंसनं वा शुद्धिः । इति पिङ्कः
तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत
कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरण उपायाः - परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा
पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्
यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्
यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्
हरितालमनःशिलाहिङ्गुलुकचूर्णानां अन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम्
तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति
भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्
अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्
विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्
अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावं अग्निष्ठं इति काचं विद्यात्
राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्
एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् ।
परीक्षेतात्ययं च एषां यथा उद्दिष्टं प्रकल्पयेत्