श्लोक ०२-१३

Kautilya Arthashastra by Acharya Chankya
सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानां असम्बन्धावेशनचतुःशालां एकद्वारां अक्षशालां कारयेत्
विशिखामध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत्
जाम्बूनदं शातकुम्भं हाटकं वैणवं श‍ृङ्गशुक्तिजं जातरूपं रसविद्धं आकर उद्गतं च सुवर्णम्
किञ्जल्कवर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठं, रक्तपीतकं मध्यमं, रक्तं अवरम्
श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम्
तद् येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत्
सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत्
रूक्षत्वाद् भिद्यमानं तैलगोमये निषेचयेत्
आकर उद्गतं सीसान्वयेन भिद्यमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदलीवज्रकन्दकल्के वा निषेचयेत्
तुत्थ उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम्
श्वेतं स्निग्धं मृदु च श्रेष्ठम्
विपर्यये स्फोटनं च दुष्टम्
तत्सीसचतुर्भागेन शोधयेत्
उद्गतचूलिकं अच्छं भ्राजिष्णु दधिवर्णं च शुद्धम्
शुद्धस्य एको हारिद्रस्य सुवर्णो वर्णकः
ततः शुल्बकाकण्य्।उत्तरापसारिता आचतुःसीमान्ताद् इति षोडश वर्णकाः
सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत्
समरागलेखं अनिम्न उन्नते देशे निकषितं, परिमृदितं परिलीढं नखान्तराद् वा गैरिकेणावचूर्णितं उपधिं विद्यात्
जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति
स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः
कालिङ्गकः तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः
समरागी विक्रयक्रयहितः
हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः
स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः
छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः
तापो बहिर्ऽन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः
श्यावो नीलश्चाप्राप्तकः
तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः
तेन उपदेशेन रूप्यसुवर्णं दद्याद् आददीत च
अक्षशालां अनायुक्तो न उपगच्छेत्
अभिगच्छन्न् उच्छेद्यः
आयुक्तो वा सरूप्यसुवर्णः तेन एव जीयेत
विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च
सर्वं च एषां उपकरणं अनिष्ठिताश्च प्रयोगाः तत्र एवावतिष्ठेरन्
गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात्
सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात्
क्षेपणो गुणः क्षुद्रकं इति कर्माणि
क्षेपणः काचार्पणादीनि
गुणः सूत्रवानादीनि
घनं सुषिरं पृषतादियुक्तं क्षुद्रकं इति
अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम्
ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकं, तस्माद् रक्षेत्
पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकं, चत्वारो वा वास्तुकं त्रयः परिभाण्डम्
त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन सम्यूहयेत्
रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत्
चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।
तपनीयं ज्येष्ठं सुवर्णं सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकया उज्ज्वालितं नीलपीतश्वेतहरितशुकपत्त्रवर्णानां प्रकृतिर्भवति
तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः
तारं उपशुद्धं वा - अस्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तं सैन्धविकया उज्ज्वालितम्
एतस्मात् काकण्य्।उत्तरमाद् विमाषाद् इति सुवर्णे देयं, पश्चाद् रागयोगः, श्वेततारं भवति ।
त्रयोऽंशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारं ऊर्च्छिताः तत् श्वेतलोहितकं भवति
ताम्रं पीतकं करोति
तपनीयं उज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति
श्वेततारभागौ द्वावेकः तपनीयस्य मुद्गवर्णं करोति
कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति
प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति
तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात्
तीक्ष्णताम्रसंस्कारं च बुध्येत
तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां अपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च
समरागं समद्वन्द्वं असक्तपृषतं स्थिरम् ।
सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखम्
अभिनीतं प्रभायुक्तं संस्थानं अधुरं समम् ।
मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः