आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञः तज्ज्ञसखो वा तज्जातकर्मकर उपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वाऽऽकरं भूतपूर्वं अभुतपूर्वं वा भूमिप्रस्तररसधातुं अत्यर्थवर्णगौरवं उग्रगन्धरसं परीक्षेत
पर्वतानां अभिज्ञात उद्देशानां बिलगुह उपत्यकालयनगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूततालफलपक्वहरिद्राभेदगुड(गूड?)हरितालमनःशिलाक्षौद्रहिङ्गुलुकपुण्डरीकशुकमयूरपत्त्रवर्णाः सवर्ण उदकोषधिपर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः
अप्सु निष्ठ्यूताः तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शताद् उपरि वेद्धारः
तत्प्रतिरूपकं उग्रगन्धरसं शिलाजतु विद्यात्
पीतकास्ताम्रकाः ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तः ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थाः ताम्ररूप्यवेधनाः
शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः स-सीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः
सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः
तेषां अशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षरभाविता राजवृक्षवटपीलुगोपित्तरोचनामहिषखरकरभमूत्रलेण्डपिण्डबद्धाः तत्प्रतीवापाः तद्ऽवलेपा वा विशुद्धाः स्रवन्ति
यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः
मधुमधुकं अजापयः स-तैलं घृतगुडकिण्वयुतं स-कन्दलीकम् ।
यद् अपि शतसहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्निषेकैः
गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः
भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः
काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः
ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः
खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः
काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः
अच्छः स्निग्धः स-प्रभो घोषवान् शीतः तीव्रः तनुरागश्च मणिधातुः
धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत्
कृतभाण्डव्यवहारं एकमुखं, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
आकरिकं अपहरन्तं अष्टगुणं दापयेद् अन्यत्र रत्नेभ्यः
स्तेनं अनिसृष्ट उपजीविनं च बद्धं कर्म कारयेत्, दण्ड उपकारिणं च
व्ययक्रियाभारिकं आकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकं आत्मना कारयेत्
लोहाध्यक्षः ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च
लक्षणाध्यक्षश्चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्जनानां अन्यतममाषबीजयुक्तं कारयेत् - पणं अर्धपणं पादं, अष्टभागं इति, पादाजीवं ताम्ररूपं - माषकं अर्धमाषकं काकणीं अर्धकाकणीं इति
रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत्
रूपिकं अष्टकं शतं, पञ्चकं शतं व्याजीं, पारीक्षिकं अष्टभागिकं, शतं, पञ्चविंशतिपणं अत्ययं च अन्यत्रकर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः
खन्य्ऽध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च
लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं सङ्गृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च
आगन्तुलवणं षड्भागं दद्यात्
दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च
क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतं अत्ययं च
विलवणं उत्तमं दण्डं दद्याद्, अनिषृष्ट उपजीवी चान्यत्र वानप्रस्थेभ्यः
श्रोत्रियाः तपस्विनो विष्टयश्च भक्तलवणं हरेयुः
अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात्
एवं मूल्यं च भागं च व्याजीं परिघं अत्ययम् ।
शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च
खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् ।
एवं सर्वेषु पण्येषु स्थापयेन् मुखसङ्ग्रहम्
आकरप्रभः कोशः कोशाद् दण्डः प्रजायते ।
पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा