कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात्
ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम्
शुक्तिः शङ्खः प्रकीर्णकं च योनयः
मसूरकं त्रिपुटकं कूर्मकं अर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम्
स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्
शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरलप्रतिबद्धं च इति यष्टिप्रभेदाः
यष्टीनां अष्टसहस्रं इन्द्रच्छन्दः
ततोऽर्धं विजयच्छन्दः
चतुष्षष्टिरर्धहारः
चतुष्पञ्चाशद् रश्मिकलापः
द्वात्रिंशद् गुच्छः
सप्तविंशतिर्नक्षत्रमाला
चतुर्विंशतिरर्धगुच्छः
विंशतिर्माणवकः
ततोऽर्धं अर्धमाणवकः
एत एव मणिमध्याः तन्माणवका भवन्ति
एकशीर्षकः शुद्धो हारः
तद्वत्शेषाः
मणिमध्योऽर्धमाणवकः
त्रिफलकः फलकहारः, पञ्चफलको वा
सूत्रं एकावली शुद्धा
सा एव मणिमध्या यष्टिः
हेममणिचित्रा रत्नावली
हेममणिमुक्ताऽन्तरोऽपवर्तकः
सुवर्णसूत्रान्तरं सोपानकम्
मणिमध्यं वा मणिसोपानकम्
तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः
मणिः कौटोमालेयकः पारसमुद्रकश्च
सौगन्धिकः पद्मरागोऽनवद्यरागः पारिजातपुष्पको बालसूर्यकः
वैडूर्यं उत्पलवर्णः शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः
इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्व्।आभो जीमूतप्रभो नन्दकः स्रवन्मध्यः
शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः
षड्ऽश्रश्चतुर्ऽश्रो वृत्तो वा तीव्ररागः संस्थानवान् अछः स्निग्धो गुरुरर्चिष्मान् अन्तर्गतप्रभः प्रभाऽनुलेपी च इति मणिगुणाः
मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः
विमलकः सस्यकोऽञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोऽहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः
शेषाः काचमणयः
सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकं इन्द्रवानकं च वज्रम्
खनिः स्रोतः प्रकीर्णकं च योनयः
मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानां अन्यतमवर्णं इति वज्रवर्णाः
स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम्
नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम्
प्रवालकं आलकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जं इति
चन्दनं सातनं रक्तं भूमिगन्धि
गोशीर्षकं कालताम्रं मत्स्यगन्धि
हरिचन्दनं शुकपत्त्रवर्णं आम्रगन्धि, तार्णसं च
ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि
दैवसभेयं रक्तं पद्मगन्धि, जापकं च
जोङ्गकं रक्तं रक्तकालं वा स्निग्धं, तौरूपं च
मालेयकं पाण्डुरक्तम्
कुचन्दनं रूक्षं अगुरुकालं रक्तं रक्तकालं वा
कालपर्वतकं रक्तकालं अनवद्यवर्णं वा
कोशागारपर्वतकं कालं कालचित्रं वा
शीत उदकीयं पद्माभं कालस्निग्धं वा
नागपर्वतकं रूक्षं शैवलवर्णं वा
शाकलं कपिलम् । इति
लघु स्निग्धं अश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वग्ऽनुसार्यनुल्बणं अविराग्युष्णसहं दाहग्राहि सुखस्पर्शनं इति चन्दनगुणाः
अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा
श्यामं दोङ्गकम्
पारसमुद्रकं चित्ररूपं उशीरगन्धि नवमालिकागन्धि वा । इति
गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहं असम्प्लुतधूमं विमर्दसहं इत्यगुरुगुणाः
तैलपर्णिकं अशोकग्रामिकं मांसवर्णं पद्मगन्धि
जोङ्गकं रक्तपीतकं उत्पलगन्धि गोमूत्रगन्धि वा
ग्रामेरुकं स्निग्धं गोमूत्रगन्धि
सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि
पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा
भद्रश्रियं पारलौहित्यकं जातीवर्णम्
आन्तरवत्यं उशीरवर्णम्
उभयं कुष्ठगन्धि च । इति
कालेयकः स्वर्णभूमिजः स्निग्धपीतकः
औत्तरपर्वतको रक्तपीतकः इति साराः ।
पिण्डक्वाथधूमसहं अविरागि योगानुविधायि च
चन्दनागुरुवच्च तेषां गुणाः
कान्तनावकं प्रैयकं च उत्तरपर्वतकं चर्म
कान्तनावकं मयूरग्रीवाभम्
प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम्
तद्।उभयं अष्टाङ्गुलायामम्
बिसी महाबिसी च द्वादशग्रामीये
अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी
परुषा श्वेतप्राया महाबिसी
द्वादशाङ्गुलायामं उभयम्
श्यामिका कालिका कदली चन्द्र उत्तरा शाकुला चारोहजाः
कपिला बिन्दुचित्रा वा श्यामिका
कालिका कपिला कपोतवर्णा वा
तद् उभयं अष्टाङ्गुलायामम्
परुषा कदली हस्तायता
सा एव चन्द्रचित्रा चन्द्र उत्तरा
कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाऽजिनचित्रा वा । इति
सामूरं चीनसी सामूली च बाह्लवेयाः
षट्त्रिंशद्ऽङ्गुलं अञ्जनवर्णं सामूरम्
चीनसी रक्तकाली पाण्डुकाली वा
सामूली गोधूमवर्णा । इति
सान्तिना नलतूला वृत्तपृच्छा चौद्राः
सातिना कृष्णा
नलतूला नलतूलवर्णा
कपिला वृत्तपुच्छा च इति चर्मजातयः ।
चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम्
शुद्धं शुद्धरक्तं पक्षरक्तं चाविकं, खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च
कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम्
पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठम्
अष्टप्रोतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणं अपसारक इति नैपालकम्
सम्पुटिका चतुर्ऽश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका इति मृगरोम
वाङ्गकं श्वेतं स्निग्धं दुकूलम्
पौण्ड्रकं श्यामं मणिस्निग्धम्
सौवर्णकुड्यकं सूर्यवर्णं मणिस्निग्ध उदकवानं चतुर्ऽश्रवानं व्यामिश्रवानं च
एतेषां एकांशुकं अध्यर्धद्वित्रिचतुर्ऽंशुकं इति
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम्
मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्र ऊर्णा
नागवृक्षो लिकुचो बकुलो वटश्च योनयः
पीतिका नागवृक्षिका
गोधूमवर्णा लैकुची
श्वेता बाकुली
शेषा नवनीतवर्णा
तासां सौवर्णकुड्यका श्रेष्ठा
तया कौशेयं चीनपट्टाश्च चीनभूमिजा व्याख्याताः
माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति
अतः परेषां रत्नानां प्रमाणं मूल्यलक्षणम् ।
जातिं रूपं च जानीयान्निधानं नवकर्म च
पुराणप्रतिसंस्कारं कर्म गुह्यं उपस्करान् ।
देशकालपरीभोगं हिंस्राणां च प्रतिक्रियाम्