शासने शासनं इत्याचक्षते
शासनप्रधाना हि राजानः, तन्मूलत्वात् सन्धिविग्रहयोः
तस्माद् अमात्यसम्पदा उपेतः सर्वसमयविद् आशुग्रन्थश्चारुऽक्षरो लेखनवाचनसमर्थो लेखकः स्यात्
सोऽव्यग्रमना राज्ञः सन्देशं श्रुत्वा निश्चितार्थं लेखं विदध्यात् देशाइश्वर्यवंशनामधेय उपचारं ईश्वरस्य, देशनामधेय उपचारं अनीश्वरस्य
जातिं कुलं स्थानवयःश्रुतानि कर्म।ऋद्धिशीलान्यथ देशकालौ ।
यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम्
अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेखसम्पत्
तत्र यथावद् अनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थक्रमः
प्रस्तुतस्यार्थस्यानुपरोधाद् उत्तरस्य विधानं आसमाप्तेरिति सम्बन्धः
अर्थपदाक्षराणां अन्यूनातिरिक्तता हेतु।उदाहरणदृष्टान्तैरर्थ उपवर्णनाऽश्रान्तपदता इति परिपूर्णता
सुख उपनीतचारुऽर्थशब्दाभिधानं माधुर्यम्
अग्राम्यशब्दाभिधानं औदार्यम्
प्रतीतशब्दप्रयोगः स्पष्टत्वं इति
अकारादयो वर्णाः त्रिषष्टिः
वर्णसङ्घातः पदम्
तच्चतुर्विधं नामाख्यात उपसर्गनिपाताश्च इति
तत्र नाम सत्त्वाभिधायि
अविशिष्टलिङ्गं आख्यातं क्रियावाचि
क्रियाविशेषकाः प्रादय उपसर्गाः
अव्ययाश्चादयो निपाताः
पदसमूहो वाक्यं अर्थपरिसमाप्तौ
एकपदावरः त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः
लेखपरिसंहरणार्थ इतिशब्दो वाचिकं अस्य इति च
निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानं अथार्थना ।
प्रत्याख्यानं उपालम्भः प्रतिषेधोऽथ चोदना
सान्त्वं अभ्युपपत्तिश्च भर्त्सनानुनयौ तथा ।
एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः
तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा
गुणवचनं एतेषां एव प्रशंसा
कथं एतद् इति पृच्छा
एवम् इत्याख्यानम्
देहि इत्यर्थना
न प्रयच्छामि इति प्रत्याख्यानम्
अननुरूपं भवतः इत्युपालम्भः
मा कार्षीः इति प्रतिषेधः
इदं क्रियताम् इति चोदना
योऽहं स भवान्, यन् मम द्रव्यं तद् भवतः इत्युपग्रहः सान्त्वम्
व्यसनसाहाय्यं अभ्युपपत्तिः
सदोषं आयतिप्रदर्शनं अभिभर्त्सनम्
अनुनयः त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने च इति
प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनिसृष्टिलेखौ ।
प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्च इति हि शासनानि
अनेन विज्ञापितं एवं आह तद् दीयतां चेद् यदि तत्त्वं अस्ति ।
राज्ञः समीपे वरकारं आह प्रज्ञापना एषा विविधा उपदिष्टा
भर्तुराज्ञा भवेद् यत्र निग्रहानुग्रहौ प्रति ।
विशेषेण तु भृत्येषु तद्।आज्ञालेखलक्षणम्
यथाऽर्हगुणसम्युक्ता पूजा यत्र उपलक्ष्यते ।
अप्याधौ परिदाने वा भवतः तावुपग्रहौ
जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।
अनुग्रहो यो नृप्तेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत्
निसृष्टिस्थाऽऽपना कार्यकरणे वचने तथा ।
एष वाचिकलेखः स्याद् भवेन्नैसृष्टिकोऽपि वा
विविधां दैवसम्युक्तां तत्त्वजां चैव मानुषीम् ।
द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति
दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च ।
प्रतिलेखो भवेत् कार्यो यथा राजवचः तथा
यत्र ईश्वरांश्चाधिकृतांश्च राजा रक्षा उपकारौ पथिकार्थं आह ।
सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः
उपायाः साम उपप्रदानभेददण्डाः
तत्र साम पञ्चविधं - गुणसङ्कीर्तनं, सम्बन्ध उपाख्यानं, परस्पर उपकारसन्दर्शनं, आयतिप्रदर्शनं, आत्म उपनिधानं इति
तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसङ्कीर्तनम्
ज्ञातियौनमौखस्रौवकुलहृदयमित्रसङ्कीर्तनं सम्बन्ध उपाख्यानम्
स्वपक्षपरपक्षयोरन्योन्य उपकारसङ्कीर्तनं परस्पर उपकारसन्दर्शनम्
अस्मिन्न् एवं कृत इदं आवयोर्भवति इत्याशाजननं आयतिप्रदर्शनम्
योऽहं स भवान्, यन् मम द्रव्यं तद् भवता स्वकृत्येषु प्रयोज्यताम् इत्यात्म उपनिधानम् । इति
उपप्रदानं अर्थ उपकारः
शङ्काजननं निर्भर्त्सनं च भेदः
वधः परिक्लेशोऽर्थहरणं दण्डः । इति
अकान्तिर्व्याघातः पुनर्।उक्तं अपशब्दः सम्प्लव इति लेखदोषः
तत्र कालपत्त्रकं अचारुविषं अविरागाक्षरत्वं अकान्तिः
पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः
उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्।उक्तम्
लिङ्गवचनकालकारकाणां अन्यथाप्रयोगोऽपशब्दः
अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः । इति
सर्वशास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च ।
कौटिल्येन नर इन्द्रार्थे शासनस्य विधिः कृतः