श्लोक ०२-०९

Kautilya Arthashastra by Acharya Chankya
अमात्यसम्पदा उपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः
कर्मसु च एषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात् मनुष्यानाम्
अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते
तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं च एषु विद्यात्
ते यथासन्देशं असंहता अविगृहीताः कर्माणि कुर्युः
संहता भक्षयेयुः, विगृहीता विनाशयेयुः
न चानिवेद्य भर्तुः कञ्चिद् आरम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः
प्रमादस्थानेषु च एषां अत्ययं स्थापयेद् दिवसवेतनव्ययद्विगुणम्
यश्च एषां यथाऽऽदिष्टं अर्थं सविशेषं वा करोति स स्थानमानौ लभेत
अल्पायतिश्चेत् महाव्ययो भक्षयति
विपर्यये यथाऽऽयतिव्ययश्च न भक्षयति इत्याचार्याः
अपसर्पेण एव उपलभ्येत इति कौटिल्यः
यः समुदयं परिहापयति स राजार्थं भक्षयति
स चेद् अज्ञानादिभिः परिहापयति तद् एनं यथागुणं दापयेत्
यः समुदयं द्विगुणं उद्भावयति स जनपदं भक्षयति
स चेद् राजार्थं उपनयत्यल्पापराधे वारयितव्यः, महति यथाऽपराधं दण्डयितव्यः
यः समुदयं व्ययं उपनयति स पुरुषकर्माणि भक्षयति
स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः
तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आयव्ययौ च व्याससमासाभ्यां आचक्षीत
मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत्
यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः
यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः
यो भृत्यात्मपीडाभ्यां उपचिनोत्यर्थं स कदर्यः
स पक्षवांश्चेद् अनादेयः, विपर्यये पर्यादातव्यः
यो महत्यर्थसमुदये स्थितः कदर्यः सम्निधत्तेऽवनिधत्तेऽवस्रावयति वा - सम्निधत्ते स्ववेश्मनि, अवनिधत्ते पौरजानपदेषु, अवस्रावयति परविषये - तस्य सत्त्री मन्त्रिमित्रभृत्यबन्धुपक्षं आगतिं गतिं च द्रव्याणां उपलभेत
यश्चास्य परविषये सञ्चारं कुर्यात् तं अनुप्रविश्य मन्त्रं विद्यात्
सुविदिते शत्रुशासनापदेशेन एनं घातयेत्
तस्माद् अस्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहक उत्तराध्यक्षसखाः कर्मणि कुर्युः
उत्तराध्यक्षा हस्तिऽश्वरथारोहाः
तेषां अन्तेवासिनः शिल्पशौचयुक्ताः सङ्ख्यायकादीनां अपसर्पाः
बहुमुख्यं अनित्यं चाधिकरणं स्थापयेत्
यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु७ वा विषं वा ।
अर्थः तथा ह्यर्थचरेण राज्ञः स्वल्पोऽप्यनास्वादयितुं न शक्यः
मत्स्या यथाऽन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।
युक्ताः तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः
अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।
न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः
आस्रावयेच्च उपचितान् विपर्यस्येच्च कर्मसु ।
यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा
न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च ।
नित्याधिकाराः कार्याः ते राज्ञः प्रियहिते रताः