कोशपूर्वाः सर्वारम्भाः
तस्मात् पूर्वं कोशं अवेक्षेत
प्रचारसमृद्धिश्चरित्रानुग्रहश्चोरनिग्रहो युक्तप्रतिषेधः सस्यसम्पत् पण्यबाहुल्यं उपसर्गप्रमोक्षः परिहारक्षयो हिरण्य उपायनं इति कोशवृद्धिः
प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्च इति कोशक्षयः
सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः
तत्र दशबन्धो दण्डः
कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः
पण्यव्यवहारो व्यवहारः
तत्र फलद्विगुणो दण्डः
सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वा इत्यवस्तारः
तत्र पञ्चबन्धो दण्डः
क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति इति परिहापणम्
तत्र हीनचतुर्गुणो दण्डः
स्वयं अन्यैर्वा राजद्रव्याणां उपभोजनं उपभोगः
तत्र रत्न उपभोगे घातः, सार उपभोगे मध्यमः साहसदण्डः, फल्गुकुप्य उपभोगे तच्च तावत् च दण्डः
राजद्रव्याणां अन्यद्रव्येनादानं परिवर्तनम्
तद् उपभोगेन व्याख्यातम्
सिद्धं आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः
तत्र द्वादशगुणो दण्डः
तेषां हरण उपायाश्चत्वारिंशत्
पूर्वं सिद्धं पश्चाद् अवतारितं, पश्चात् सिद्धं पूर्वं अवतारितं, साध्यं न सिद्धं, असाध्यं सिद्धं, सिद्धं असिद्धं कृतं, असिद्धं सिद्धं कृतं, अल्पसिद्धं बहु कृतं, बहुसिद्धं अल्पं कृतं, अन्यत् सिद्धं अन्यत् कृतं, अन्यतः सिद्धं अन्यतः कृतं,
देयं न दत्तं, अदेयं दत्तं, काले न दत्तं, अकाले दत्तं, अल्पं दत्तं बहु कृतं, बहु दत्तं अल्पं कृतं, अन्यद् दत्तं अन्यत् कृतं, अन्यतो दत्तं अन्यतः कृतं,
प्रविष्टं अप्रविष्टं कृतं, अप्रविष्टं प्रविष्टं कृतं, कुप्यं अदत्तमूल्यं प्रविष्टं, दत्तमूल्यं न प्रविष्टं
सङ्क्षेपो विक्षेपः कृतः, विक्षेपः सङ्क्षेपो वा, महाऽर्घं अल्पार्घेण परिवर्तितं, अल्पार्घं महाऽर्घेण वा
समारोपितोऽर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः
निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरण उपायाः
तत्र उपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरान् एक एकशोऽनुयुञ्जीत
मिथ्यावादे च एषां युक्तसमो दण्डः
प्रचारे चावघोषयेत् अमुना प्रकृतेन उपहताः प्रज्ञापयन्तु इति
प्रज्ञापयतो यथा उपघातं दापयेत्
अनेकेषु चाभियोगेष्वपव्ययमानः सकृद् एव पर उक्तः सर्वं भजेत
वैषम्ये सर्वत्रानुयोगं दद्यात्
महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत
कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठं अंशं लभेत, द्वादशं अंशं भृतकः
प्रभूताभियोगाद् अल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः
निष्पत्तौ निक्षिपेद् वादं आत्मानं वाऽपवाहयेत् ।
अभियुक्त उपजापात् तु सूचको वधं आप्नुयात्