अक्षपटलं अध्यक्षः प्रान्मुखं उदन्मुखं वा विभक्त उपस्थानं निबन्धपुस्तकस्थानं कारयेत्
तत्राधिकरणानां सङ्ख्याप्रचारसञ्जाताग्रं, कर्मान्तानां द्रव्यप्रयोगवृद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणं, रत्नसारफल्गुकुप्यानां अर्घप्रतिवर्णकमानप्रतिमान उन्मानावमानभाण्डं, देशग्रामजातिकुलसङ्घानां धर्मव्यवहारचरित्रसंस्थानं, राज उपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देश उत्पातिकप्रतीकारलाभं, मित्रामित्राणां च सन्धिविग्रहप्रदानादानं निबन्धपुस्तकस्थं कारयेत्
ततः सर्वाधिकरणानां करणीयं सिद्धं शेषं आयव्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत्
उत्तममध्यमावरेषु च कर्मसु तज्जातिकं अध्यक्षं कुर्यात्, सामुदयिकेष्ववक्लृप्तिकम्(अवकॢप्तिकम्) यं उपहत्य राजा नानुतप्येत
सहग्राहिणः प्रतिभुवः कर्म उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः
त्रिशतं चतुःपञ्चाशत् चाहोरात्राणां कर्मसंवत्सरः
तं आषाढीपर्यवसानं ऊनं पूर्णं वा दद्यात्
करणाधिष्ठितं अधिमासकं कुर्यात्
अपसर्पाधिष्ठितञ्च प्रचारम्
प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति, उत्थानक्लेशासहत्वाद् आलस्येन, शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन, सङ्क्रोशाधर्मानर्थभीरुभायेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद् दर्पेण, तुलामानतर्कगणितान्तर उपधानात् लोभेन
तेषां आनुपूर्व्या यावान् अर्थ उपघातः तावान् एक उत्तरो दण्डः इति मानवाः
सर्वत्राष्टगुणः इति पाराशराः
दशगुणः इति बार्हस्पत्याः
विंशतिगुणः इत्यौशनसाः
यथाऽपराधं इति कौटिल्यः
गाणनिक्यानि आषाढीं आगच्छेयुः
आगतानां समुद्रपुस्तकभाण्डनीवीकानां एकत्रासम्भाषाऽवरोधं कारयेत्
आयव्ययनीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत्
यच्चाग्राद् आयस्यान्तरपर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्टगुणं अध्यक्षं दापयेत्
विपर्यये तं एव प्रति स्यात्
यथाकालं अनागतानां अपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः
कार्मिके च उपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः
विपर्यये कार्मिकस्य द्विगुणः
प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः
पृथग्भूतो मिथ्यावादी च एषां उत्तमं दण्डं दद्यात्
अकृताहोरूपहरं मासं आकाङ्क्षेत
मासाद् ऊर्ध्वं मासद्विशत उत्तरं दण्डं दद्यात्
अल्पशेसलेख्यनीवीकं पञ्चरात्रं आकाङ्क्षेत
ततः परं कोशपूर्वं अहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत
दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत्
व्युष्टदेशकालमुख उत्पत्तिऽनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत्
व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापक उद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत्
व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत्
राजार्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाऽऽज्ञां निबन्धाद् आयव्ययं अन्यथा नीवीं अवलिखतो द्विगुणः
क्रमावहीनं उत्क्रमं अविज्ञातं पुनर्।उक्तं वा वस्तुकं अवलिखतो द्वादशपणो दण्डः
नीवीं अवलिखतो द्विगुणः
भक्षयतोऽष्टगुणः
नाशयतः पञ्चबन्धः प्रतिदानं च
मिथ्यावादे स्तेयदण्डः
पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृत उत्पन्ने च
अपराधं सहेताल्पं तुष्येद् अल्पेऽपि च उदये ।
महा उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत्