दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि इति
तेभ्यो जनपदं रक्षेत्
ग्रीष्मे बहिर्ऽधिश्रयणं ग्रामाः कुर्युः, दशमूलीसङ्ग्रहेणाधिष्ठिता वा
नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च
बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत्
वर्षारात्रं आनूपग्रामाः पूरवेलां उत्सृज्य वसेयुः
काष्ठवेणुनावश्च उपगृह्णीयुः
उह्यमानं अलाबुदृतिप्लवगण्डिकावेणिकाभिः तारयेयुः
अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः
पर्वसु च नदीपूजाः कारयेत्
मायायोगविदो वेदविदो वा वर्षं अभिचरेयुः
वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत्
व्याधिभयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः
तेन मरको व्याख्यातः
तीर्थाभिषेचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत्
पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत्
दुर्भिक्षे राजा बीजभक्त उपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा
मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात्
निष्पन्नसस्यं अन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत
धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा
मूषिकभये मार्जारनकुल उत्सर्गः
तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनां अनिग्रहे चान्यत्रारण्यचरेभ्यः
स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा
मूषिककरं वा प्रयुञ्जीत
शान्तिं वा सिद्धतापसाः कुर्युः
पर्वसु च मूषिकपूजाः कारयेत्
तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः
व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा
लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः
आवरणिनः शस्त्रपाणयो व्यालान् अभिहन्युः
अनभिसर्तुर्द्वादशपणो दण्डः
स एव लाभो व्यालघातिनः
पर्वसु च पर्वतपूजाः कारयेत्
तेन मृगपशुपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः
सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः
सम्भूय वाऽपि सर्पान् हन्युः
अथर्ववेदविदो वाऽभिचरेयुः
पर्वसु च नागपूजाः कारयेत्
तेन उदकप्राणिभयप्रतीकारा व्याख्याताः
रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः
पर्वसु च वितर्दिच्छत्र उल्लोपिकाहस्तपताकाच्छाग उपहारैश्चैत्यपूजाः कारयेत्
चरुं वश्चरामः इत्येवं सर्वभयेष्वहोरात्रं चरेयुः
सर्वत्र च उपहतान् पिता इवानुगृह्णीयात्
मायायोगविदः तस्माद् विषये सिद्धतापसाः ।
वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः