श्लोक ०२-०४

Kautilya Arthashastra by Acharya Chankya
त्रयः प्राचीना राजमार्गाः त्रय उदीचीना इति वास्तुविभागः
स द्वादशद्वारो युक्त उदकभ्रमच्छन्नपथः
चतुर्दण्डान्तरा रथ्याः
राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः सम्यानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः
चतुर्दण्डः सेतुवनपथः, द्विदण्डो हस्तिक्षेत्रपथः, पञ्चारत्नयो रथपथः, चत्वारः पशुपथः, द्वौ क्षुद्रपशुमनुष्यपथः
प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे
वास्तुहृदयाद् उत्तरे नवभागे यथा उक्तविधानं अन्तःपुरं प्रान्मुखं उदन्मुखं वा कारयेत्
तस्य पूर्व उत्तरं भागं आचार्यपुरोहित इज्यातोयस्थानं मन्त्रिणश्चावसेयुः, पूर्वदक्षिणं भाग्ं महानसं हस्तिशाला कोष्ठागारं च
ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः
दक्षिणपूर्वं भागं भाण्डागारं अक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहं आयुधागारं च
ततः परं नगरधान्यव्यावहारिककार्मान्तिकबलाध्यक्षाः पक्वान्नसुरामांसपण्या रूपाजीवाः तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः
पश्चिमदक्षिणं भागं खर उष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिम उत्तरं भागं यानरथशालाः
ततः परं ऊर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः
उत्तरपश्चिमं भागं पण्यभैषज्यगृहं, उत्तरपूर्वं भागं कोशो गवाश्वं च
ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्च उत्तरां दिशं अधिवसेयुः
वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः
अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत्
यथा उद्देशं वास्तुदेवताः स्थापयेत्
ब्राह्माइन्द्रयाम्यसैनापत्यानि द्वाराणि
बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः
उत्तरः पूर्वो वा श्मशानभागो वर्ण उत्तमानां, दक्षिणेन श्मशानं वर्णावराणाम्
तस्यातिक्रमे पूर्वः साहसदण्डः
पाषण्डचण्डालानां श्मशानान्ते वासः
कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत्
तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
दशकुलीवाटं कूपस्थानम्
सर्वस्नेहधान्यक्षारलवणगन्धभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्नायुविषविषाणवेणुवल्कलसारदारुप्रहरणावरणाश्मनिचयान् अनेकवर्ष उपभोगसहान् कारयेत्
नवेनानवं शोधयेत्
हस्तिऽश्वरथपादातं अनेकमुख्यं अवस्थापयेत्
अनेकमुख्यं हि परस्परभयात् पर उपजापं न उपैति
एतेनान्तपालदुर्गसंस्कारा व्याख्याताः
न च बाहिरिकान् कुर्यात् पुरे राष्ट्र उपघातकान् ।
क्षिपेज् जनपदे च एतान् सर्वान् वा दापयेत् करान्