श्लोक ०२-०३

Kautilya Arthashastra by Acharya Chankya
चतुर्दिशं जनपदान्ते साम्परायिकं दैवकृतं दुर्गं कारयेत्, अन्तर्द्वीपं स्थलं वा निम्नावरुद्धं औदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्बं इरिणं वा धान्वनं, खञ्जन उदकं स्तम्बगहनं वा वनदुर्गम्
तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानं, धान्वनवनदुर्गं अटवीस्थानं आपद्यपसारो वा
जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत्, वास्तुकप्रशस्ते देशे नदीसङ्गमे ह्रदस्याविशोषस्याङ्के सरसः तटाकस्य वा, वृत्तं दीर्घं चतुर्ऽश्रं वा वास्तुवशेन वा प्रदक्षिण उदकं पण्यपुटभेदनं अंसपथवारिपथाभ्यां उपेतम्
तस्य परिखाः तिस्रो दण्डान्तराः कारयेत् चतुर्दश द्वादश दश इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद ऊनं अर्धं वा, त्रिभागमूलाः, मूलचतुर्ऽश्रा वा, पाषाण उपहिताः पाषाण इष्टकाबद्धपार्श्वा वा, तोयान्तिकीरागन्तुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्च
चतुर्दण्डापकृष्टं परिखायाः षड्दण्ड उच्छ्रितं अवरुद्धं तद्द्विगुणविष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम्
पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत्
वप्रस्य उपरि प्राकारं विष्कम्भद्विगुण उत्सेधं ऐष्टकं द्वादशहस्ताद् ऊर्ध्वं ओजं युग्मं वा आ चतुर्विंशतिहस्ताद् इति कारयेत्
रथचर्यासञ्चारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम्
पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम्
अग्निरवहितो हि तस्मिन् वसति
विष्कम्भचतुर्ऽश्रं अट्टालकं उत्सेधसमावक्षेपसोपानं कारयेत् त्रिंशद्दण्डान्तरं च
द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलां अध्यर्धायायामां प्रतोलीं कारयेत्
अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं स-अपिधानच्छिद्रफलकसंहतं इन्द्रकोशं कारयेत्
अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत्
दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च
बहिर्जानुभञ्जनीशूलप्रकरकूपकूटावपातकण्टकप्रतिसराहिपृष्ठतालपत्त्रश‍ृङ्गाटकश्वदंष्ट्रार्गल उपस्कन्दनपादुकाम्बरीष उदपानकैः प्रतिच्छन्नं छन्नपथं कारयेत्
प्राकारं उभयतो मेण्ढकं अध्यर्धदण्डं कृत्वा प्रतोलीषट्तुलाऽन्तरं द्वारं निवेशयेत् पञ्चदण्डाद् एक उत्तरं आऽष्टदण्डाद् इति चतुर्ऽश्रं षड्भागं आयामाद्ऽधिकं अष्टभागं वा
पञ्चदशहस्ताद् एक उत्तरं आऽष्टादशहस्ताद् इति तल उत्सेधः
स्तम्भस्य परिक्षेपः षड्।आयामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः
आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च
दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरं आणीहर्म्यं च
समुच्छ्रयाद् अर्धतले स्थूणाबन्धश्च
अर्धवास्तुकं उत्तमागारं, त्रिभागान्तरं वा, इष्टकाऽवबद्धपार्श्वं, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानं इतरतः
द्विहस्तं तोरणशिरः
त्रिपञ्चभागिकौ द्वौ कपाटयोगौ
द्वौ परिघौ
अरत्निरिन्द्रकीलः
पञ्चहस्तं आणिद्वारम्
चत्वारो हस्तिपरिघाः
निवेशार्धं हस्तिनखम्
मुखसमः सङ्क्रमः संहार्यो भूमिमयो वा निरुदके
प्राकारसमं मुखं अवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत्
प्राकारमध्ये वापीं कृत्वा पुष्करिणीद्वारं, चतुःशालं अध्यर्धान्तरं साणिकं कुमारीपुरं, मुण्डहर्म्यद्वितलं मुण्डकद्वारं, भूमिद्रव्यवशेन वा निवेशयेत्
त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत्
तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः ।
मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः
कार्याः कार्मारिकाः शूला वेधनाग्राश्च वेणवः ।
उष्ट्रग्रीव्योऽग्निसम्योगाः कुप्यकल्पे च यो विधिः