श्लोक ०२-०५

Kautilya Arthashastra by Acharya Chankya
सम्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहं आयुधागारं बन्धनागारं च कारयेत्
चतुर्ऽश्रां वापीं अन्-उदक उपस्नेहां खानयित्वा पृथुशिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलं अनेकविधानं कुट्टिमदेशस्थानतलं एकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत्
तस्य उपरि उभयतोनिषेधं स-प्रग्रीवं ऐष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा
जनपदान्ते ध्रुवनिधिं आपद्ऽर्थं अभित्यक्तैः कारयेत्
पक्व इष्टकास्तम्भं चतुःशालं एकद्वारं अनेकस्थानतलं विवृतस्तम्भापसारं उभयतः पण्यगृहं कोष्ठागारं च
दीर्घबहुशालं कक्ष्यावृतकुड्यं अन्तः कुप्यगृहं, तद् एव भूमिगृहयुक्तं आयुधागारं
पृथग्धर्मस्थीयं महामात्रीयं विभक्तस्त्रीपुरुषस्थानं अपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत्
सर्वेषां शालाः खात उदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत्
कोष्ठागारे वर्षमानं अरत्निमुखं कुण्डं स्थापयेत्
तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात्
तत्र रत्न उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार उपधौ मध्यमः, फल्गुकुप्य उपधौ तत् च तावत् च दण्डः
रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात्
अशुद्धं छेदयेत्
आहर्तुः पूर्वः साहसदण्डः
शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात्
विपर्यये मूल्यद्विगुणो दण्डः
तेन पण्यं कुप्यं आयुधं च व्याख्यातम्
सर्वाधिकरणेषु युक्त उपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यम उत्तमवधा दण्डाः
कोशाधिष्ठितस्य कोशावच्छेदे घातः
तद्वैयावृत्यकराणां अर्धदण्डाः
परिभाषणं अविज्ञाते
चोराणां अभिप्रधर्षणे चित्रो घातः
तस्माद् आप्तपुरुवाधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत्
बाह्यं अभ्यन्तरं चायं विद्याद् वर्षशताद् अपि ।
यथा पृष्टो न सज्जेत व्यये शेषे च सञ्चये