शयनाद् उत्थितः स्त्रीगणैर्धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक उष्णीषिभिर्वर्षधराभ्यागारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः
पितृपैतामहं सम्बन्धानुबद्धं शिक्षितं अनुरक्तं कृतकर्माणं च जनं आसन्नं कुर्वीत, नान्यतोदेशीयं अकृतार्थमानं स्वदेशीयं वाऽप्यपकृत्य उपगृहीतम्
अन्तर्वंशिकसैन्यं राजानं अन्तःपुरं च रक्षेत्
गुप्ते देशे माहानसिकः सर्वं आस्वादबाहुल्येन कर्म कारयेत्
तद् रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा
अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च
अन्नस्य ऊष्मा मयूरग्रीवाभः शैत्यं आशु क्लिष्टस्य इव वैवर्ण्यं स-उदकत्वं अक्लिन्नत्वं च
व्यञ्जनानां आशु शुष्कत्वं च क्वाथध्यामफेनपटलविच्छिन्नभावो गन्धस्पर्शरसवधश्च
द्रवेषु हीनातिरिक्तच्छायादर्शनं फेनपटलसीमन्त ऊर्ध्वराजीदर्शनं च
रसस्य मध्ये नीला राजी, पयसः ताम्रा, मद्यतोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्वभावः क्वाथनीलश्यावता च
शुष्काणां आशु शातनं वैवर्ण्यं च,
कठिनानां मृदुत्वं मृदूनां च कठिनत्वं, तद्ऽभ्याशे क्षुद्रसत्त्ववधश्च,
आस्तरणप्रवरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च,
लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च - इति विषयुक्तस्य लिङ्गानि
विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणं आवेगः कर्मणि स्वभूमौ चानवस्थानं इति
तस्माद् अस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः
भिषग्भैषज्यागाराद् आस्वादविशुद्धं औषधं गृहीत्वा पाचकपेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत्
पानं पानीयं चाउषधेन व्याख्यातम्
कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रं उपकरणं अन्तर्वंशिकहस्ताद् आदाय परिचरेयुः
स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः
आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च
एतेन परस्माद् आगतकं व्याख्यातम्
कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः
आतोद्यानि च एषां अन्तः तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च
आप्तपुरुषाधिष्ठितं यानवाहनं आरोहेत्, नावं चाप्तनाविकाधिष्ठितम्
अन्यनौप्रतिबद्धां वातवेगवशां च न उपेयात्
उदकान्ते सैन्यं आसीत
मत्स्यग्राहविशुद्धं उदकं अवगाहेत
व्यालग्राहविशुद्धं उद्यानं गच्छेत्
लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत्
आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम्
सम्नद्धोऽश्वं हस्तिनं वाऽऽरूढः सम्नद्धं अनीकं पश्येत्
निर्याणेऽभियाने च राजमार्गं उभयतः कृतारक्षं शस्त्रिभिर्दण्डिभिश्चापास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत्
न पुरुषसम्बाधं अवगाहेत
यात्रासमाज उत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत्
यथा च योगपुरुषैरन्यान् राजाऽधितिष्ठति ।
तथाऽयं अन्याबाधेभ्यो रक्षेद् आत्मानं आत्मवान्