भूतपूर्वं अभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्
शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानं अन्योन्यारक्षं निवेशयेत्
नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत्
अष्टशतग्राम्या मध्ये स्थानीयं, चतुह्शतग्राम्या द्रोणमुखं, द्विशतग्राम्याः कार्वटिकं, दशग्रामीसङ्ग्रहेण सङ्ग्रहं स्थापयेत्
अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत्
तेषां अन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः
ऋत्विग्।आचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्यभिरूपदायादकानि प्रयच्छेत्
अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि
करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत्
अकृतानि कर्तृभ्यो नादेयानि
अकृषतां आछिद्यान्येभ्यः प्रयच्छेत्
ग्रामभृतकवैदेहका वा कृषेयुः
अकृषन्तो वाऽवहीनं दद्युः
धान्यपशुहिरण्यैश्च एतान् अनुगृह्णीयात्
तान्यनु सुखेन दद्युः
अनुग्रहपरिहारौ च एतेब्भ्यः कोशवृद्धिकरौ दद्यात्, कोश उपघातकौ वर्जयेत्
अल्पकोशो हि राजा पौरजानपदान् एव ग्रसते
निवेशसमकालं यथाऽऽगतकं वा परिहारं दद्यात्
निवृत्तपरिहारान् पिता इवानुगृह्णीयात्
आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत्
सह उदकं आहार्य उदकं वा सेतुं बन्धयेत्
अन्येषां वा बध्नतां भूमिमार्गवृक्ष उपकरणानुग्रहं कुर्यात्, पुण्यस्थानारामाणां च
सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः
व्ययकर्मणि च भागी स्यात्, न चांशं लभेत
मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत्
दासाहितकबन्धून् अशृण्वतो राजा विनयं ग्राहयेत्
बालवृद्धव्यसन्य्ऽनाथांश्च राजा बिभृयात्, स्त्रियं अप्रजातां प्रजातायश्च पुत्रान्
बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्, देवद्रव्यं च
अपत्यदारं मातापितरौ भ्रातॄन् अप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः
पुत्रदारं अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः
लुप्तव्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान्
अन्यथा नियम्येत
वानप्रस्थाद् अन्यः प्रव्रजितभावः, सजाताद् अन्यः सङ्घः, सामुत्थायिकाद् अन्यः समयानुबन्धो वा नास्य जनपदं उपनिविशेत
न च तत्रारामा विहारार्था वा शालाः स्युः
नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः
निराश्रयत्वाद् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति
परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।
देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत्
दण्डविष्टिकराबाधै रक्षेद् उपहतां कृषिम् ।
स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान्
वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् ।
शोधयेत् पशुसङ्घैश्च क्षीयमाणं वणिक्पथम्
एवं द्रव्यद्विपवनं सेतुबन्धं अथाकरान् ।
रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत्