श्लोक ०१-२०

Kautilya Arthashastra by Acharya Chankya
वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारं अनेककक्ष्यापरिगतं अन्तःपुरं कारयेत्
कोशगृहविधानेन मध्ये वासगृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृहं वाऽऽसन्नचैत्यकाष्ठदेवताऽपिधानद्वारं अनेकसुरुङ्गासञ्चारं तस्य उपरि प्रासादं गूढभित्तिसोपानं सुषिरस्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत्, आपत्प्रतीकारार्थं आपदि वा
अतोऽन्यथा वा विकल्पयेत्, सहाध्यायिभयात्
मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति, न चात्रान्योऽग्निर्ज्वलति, वैद्युतेन भस्मना मृत्सम्युक्तेन करकवारिणाऽवलिप्तं च
जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति
मयूरनकुलपृषत उत्सर्गः सर्पान् भक्षयति
शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति
क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते
इत्येवं अग्निविषसर्पेभ्यः प्रतिकुर्वीत
पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्ष उदकस्थानं च
बहिः कन्याकुमारपुरम्
पुरस्ताद् अलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च
कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत्
अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत्
देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्याऽन्तर्गतश्च पुत्रः कारूषम्
लाजान् मधुना इति विषेण पर्यस्य देवी काशिराजं, विषदिग्धेन नूप्रेण वैरन्त्यं, मेखलामणिना सौवीरं, जालूथं आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान
तस्माद् एतान्यास्पदानि परिहरेत्
मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत्
न च एनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः
रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षधराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः, स्थापयेयुश्च स्वामिहिते,
स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत् ।
न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत्
सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।
निर्गच्छेद् अभिगच्छेद् वा मुद्रासङ्क्रान्तभूमिकम्