स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः
श्लेष्मातककपित्थदन्तिदन्तशठगोजिशिरीषपाटलीबलास्योनागपुनर्नवाश्वेतवारणक्वाथयुक्तम्(?) चन्दनसालावृकीलोहितयुक्तं नेजन उदकं राज उपभोग्यानां गुह्यप्रक्षालनं स्त्रीणां, सेनायाश्च विषप्रतीकारः
पृषतनकुलनीलकण्ठगोधापित्तयुक्तं महीराजीचूर्णं सिन्दुवारितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोषहरः
सृगालविन्नामदनसिन्दुवारितवरणवारणवलीमूलकषायाणां अन्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम्
कैडर्यपूतितिलतैलं उन्मादहरं नस्तःकर्म
प्रियङ्गुनक्तमालयोगः कुष्ठहरः
कुष्ठलोध्रयोगः पाकशोषघ्नः
कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम्
प्रियङ्गुमञ्जिष्ठातगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जु।उदकविषप्रहारपतननिह्संज्ञानां पुनःप्रत्यानयनाय
मनुष्याणां अक्षमात्रं, गवाश्वानां द्विगुणं, चतुर्गुणं हस्त्य्।उष्ट्राणाम्
रुक्मगर्भश्च एषां मणिः सर्वविषहरः
जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः
तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः ।
लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः
एतैः कृत्वा प्रतीकारं स्वसैन्यानां अथात्मनः ।
अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान्