मार्जार उष्ट्रवृकवराहश्वाविद्वागुलीनप्तृकाक उलूकानां अन्येषां वा निशाचराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत्
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति
एकाम्लकं वराहाक्षि खद्योतः कालशारिवा ।
एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति
त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां यवान् आवास्याविक्षीरेण सेचयेत्
ततो यवविरूढमालां आबध्य नष्टच्छायारूपश्चरति
त्रिरत्र उपोषितः पुष्येण श्वमार्जार उलूकवागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत्
ततो यथास्वं अभ्यक्ताक्षो नष्टच्छायारूपश्चरति
त्रिरात्र उपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत्
ततो अन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति
त्रिरात्र उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत्
ततो निशाचराणां सत्त्वानां अन्यतमस्य शिरःकपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत्
तद् अञ्जनं पुष्येण उद्धृत्य तस्यां अञ्जन्यां निदध्यात्
तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति
यत्र ब्राह्मणं आहिताग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रिरात्र उपोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभस्मना पूरयित्वा तं आबध्य नष्टच्छायारूपश्चरति
ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाऽहिभस्त्रा पशूनां अन्तर्धानम्
सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणां अन्तर्धानम्
उलूकवागुलीपुच्छपुरीषजान्व्ऽस्थिचूर्णपूर्णाऽहिभस्त्रा पक्षिणां अन्तर्धानम्
इत्यष्टावन्तर्धानयोगः
बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
भण्डीरपाकं नरकं निकुम्भं कुम्भं एव च
देवलं नारदं वन्दे वन्दे सावर्णिगालवम् ।
एतेषां अनुयोगेन कृतं ते स्वापनं महत्
यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः ।
तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः
भण्डकानां सहस्रेण रथनेमिशतेन च ।
इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः
नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः ।
ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः
अध्ययनपारगाः सिद्धा ये च कौलास तापसाः ।
एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत्
अतिगच्छन्ति च मय्यपगच्छन्तु संहताः
अलिते, वलिते, मनवे स्वाहा
एतस्य प्रयोगः
त्रिरात्र उपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद् विलखावलेखनं क्रीणीयात्
तन्माषैः सह कण्डोलिकायां कृत्वाऽसङ्कीर्ण आदहने निखानयेत्
द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत्
तत एकां गुलिकां अभिमन्त्रयित्वा यत्र एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
एतेन एव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतं असङ्कीर्ण आदहने निखानयेत्
द्वितीयस्यां चतुर्दश्यां उद्धृत्यादहनभस्मना सह यत्र एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् ।
सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान्
वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः ।
वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा
स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
श्वाविधः शल्यकं च एतत् त्रिश्वेतं ब्रह्मनिर्मितम्
प्रसुप्ताः सर्वसिद्धा हि एतत् ते स्वापनं कृतम् ।
यावद् ग्रामस्य सीमान्तः सूर्यस्य उद्गमनाद् इति
स्वाहा
एतस्य प्रयोगः
श्वाविधः शल्यकानि त्रिश्वेतानि, सप्तरात्र उपोषितः कृष्णचतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्टशतसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
तत एकं एतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति
बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
निकुम्भं नरकं कुम्भं तन्तुकच्छं महाऽसुरम्
अर्मालवं प्रमीलं च मण्ड उलूकं घट उबलम् ।
कृष्णकंस उपचारं च पौलोमीं च यशस्विनीम्
अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्ऽर्थं शवशारिकाम् ।
जयतु जयति च नमः शलकभूतेभ्यः स्वाहा

सुखं स्वपन्तु सिद्धार्था यं अर्थं मार्गयामहे ।
यावद् अस्तं अयाद् उदयो यावद् अर्थं फलं मम
इति स्वाहा
एतस्य प्रयोगः
चतुर्भक्त उपवासी कृष्णचतुर्दश्यां असङ्कीर्ण आदहने बलिं कृत्वा एतेन मन्त्रेण शवशारिकां गृहीत्वा पौत्रीपोट्टलिकं बध्नीयात्
तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्र एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति
उपैमि शरणं चाग्निं दैवतानि दिशो दश ।
अपयान्तु च सर्वाणि वशतां यान्तु मे सदा
स्वाहा
एतस्य प्रयोगः
त्रिरात्र उपोस्षितः पुष्येण शर्करा एकविंशतिसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
ततो गन्धमाल्येन पूजयित्वा निखानयेत्
द्वितीयेन पुष्येण उद्धृत्य एकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात्
अभ्यन्तर्ं चतसृणां शर्कराणां द्वारं अपाव्रियते
चतुर्भक्त उपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्च एतेन
द्विगोयुक्तं गोयानं आहृतं भवति
ततः परमाकाशे विरामति
रविसगन्धः परिघमति सर्वं पृणाति
चण्डालीकुम्भीतुम्बकटुकसारोघः सनारीभगोऽसि - स्वाहा
ताल उद्घाटनं प्रस्वापनं च
त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां तुवरीरावास्य उदकेन सेचयेत्
जातानां पुष्येण एव गृहीत्वा रज्जुकां वर्तयेत्
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति
उदकाहिभस्त्रां उच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च
वराहभस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनाऽवबध्नीयात्, आनाहकारणम्
कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृक्षमयीं अमित्रप्रतिमां अञ्ज्यात्, अन्धीकरणम्
चतुर्भक्त उपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत्
एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदेऽस्यासने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति
एतेन एव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः
पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा
निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।
सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
पुनर्नवं अवाचीनं निम्बः काममधुश्च यः ।
स्वयङ्गुप्ता मनुष्यास्थि पदे यस्य निखन्यते
द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।

अजमर्कटरोमाणि मार्जारनकुलस्य च ।
ब्राह्मणानां श्वपाकानां काक उलूकस्य चाहरेत् ।
एतेन विष्ठाऽवक्षुण्णा सद्य उत्सादकारिका
प्रेतनिर्मालिका किण्वं रोमाणि नकुलस्य च ।
वृश्चिकाल्य्(?) अहिकृत्तिश्च पदे यस्य निखन्यते ।
भवत्यपुरुषः सद्यो यावत् तन्नापनीयते
त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां गुञ्जा आवास्य उदकेन सेचयेत्
जातानां अमावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत्
तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते
रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनान् उत्कृत्य दाहयेत्
दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भं अन्तर्लेपयेत्
तं ग्रामं अपसव्यं परिणीय यत् तत्र न्यस्तं नवनीतं एषां तत् सर्वं आगच्छति
कृष्णचतुर्दश्यां पुष्ययोगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत्
तां स्वयं पतितां गृह्णीयात्
तया वृक्षफलान्याकारितान्यागच्छन्ति
मन्त्रभैषज्यसम्युक्ता योगा मायाकृताश्च ये ।
उपहन्याद् अमित्रांः तैः स्वजनं चाभिपालयेत्