चातुर्वर्ण्यरक्षाऽर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत
कालकूटादिर्विषवर्गः श्रद्धेयदेशवेषशिल्पभाषाऽभिजनापदेशैः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिर्म्लेच्छजातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च परशरीर उपभोगेष्ववधातव्यः
राजक्रीडाभाण्डनिधानद्रव्य उपब्भोगेषु गूढाः शस्त्रनिधानं कुर्युः, सत्त्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम्
चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णं उच्चिदिङ्गकम्बलीशतकन्द(कर्दम?) इध्मकृकलासचूर्णं गृहगोलिकान्धाहिकक्रकण्टकपूतिकीटगोमारिकाचूर्णं भल्लातकावल्गुजरसम्युक्तं सद्यःप्राणहरं, एतेषां वा धूमः
कीटो वाऽन्यतमः तप्तः कृष्णसर्पप्रियङ्गुभिः ।
शोषयेद् एष सम्योगः सद्यःप्राणहरो मतः
धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तं आर्धमासिकः
व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः
कलामात्रं पुरुषाणां, द्विगुणं खराश्वानां, चतुर्गुणं हस्त्य्।उष्ट्राणाम्
शतकर्दम उच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्चरति तावन् मारयति
पूकिकीटमस्त्यकटुतुम्बीशतकर्दम इध्म इन्द्रगोपचूर्णं पूतिकीटक्षुद्रारालाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तं अन्धीकरो धूमः
पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टं अन्धीकरो धूमः
सर्पनिर्मोकं गोऽश्वपुरीषं अन्धाहिकशिरश्चान्धीकरो धूमः
पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं कासीसहिङ्गुयवतुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बीजानि गोमूत्रिकाभाण्डीमूलं निम्बशिग्रुफणिर्जकाक्षीवपीलुकभङ्गः सर्पशफरीचर्म हस्तिनखशृङ्गचूर्णं इत्येष धूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशो यावच्चरति तावन् मारयति
कालीकुष्ठनडशतावलीमूलं सर्पप्रचलाककृकणपञ्चकुष्ठचूर्णं वा धूमः पूर्वकल्पेनार्द्रशुष्कपलालेन वा प्रणीतः सङ्ग्रामावतरणावस्कन्दनसङ्कुलेषु कृतनेजन उदकाक्षिप्रतीकारैः प्रणीतः सर्वप्राणिनां नेत्रघ्नः
शारिकाकपोतबकबलाकालेण्डं अर्काक्षिपीलुकस्नुहिक्षीरपिष्टं अन्धीकरणं अञ्जनं उदकदूषणं च
यवकशालिमूलमदनफलजातीपत्त्रनरमूत्रयोगः प्लक्षविदारीमूलयुक्तो मूक उदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः
शृङ्गिगौतमवृककण्टकारमयूरपदीयोगो गुञ्जालाङ्गलीविषमूलिक इङ्गुदीयोगः करवीराक्षिपीलुकार्कमृगमारणीयोगो मद्नकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः
समस्ता वा यवस इन्धन उदकदूषणाः
कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधं उन्मादं च करोति
कृकलासगृहगोलिकायोगः कुष्ठकरः
स एव चित्रं एकान्त्रमधुयुक्तः प्रमेहं आपादयति, मनुष्यलोहितयुक्तः शोषम्
दूषीविषं मदनकोद्रवचूर्णं अपजिह्विकायोगः
मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः
पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः
भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिर।करो मासार्धमासिकः
कलामात्रं पुरुषाणां इत् समानं पूर्वेण
भङ्गक्वाथ उपनयनं औषधानां, चूर्णं प्राणभृतां, सर्वेषां वा क्वाथ उपनयनं, एवं वीर्यवत्तरं भव्ति
इति योगसम्पत्
शाल्मली विदारीधान्यसिद्धो मूलवत्सनाभसम्युक्तश्चुच्छुन्दरीशोणितप्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोऽन्यान् दशपुरुषान् दशति, ते दष्टा दशान्यान् दशन्ति पुरुषान्
बल्लातकयातुधानावानुधामार्गवबाणानां पुष्पैरेलकाक्षिगुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः
ततोऽर्धधरणिको योगः सक्तुपिण्याकाभ्यां उदके प्रणीतो धनुःशतायामं उदकाशयं दूषयति
मत्स्यपरम्परा ह्येतेन दष्टाऽभिमृष्टा वा विषीभवति, यश्च एतद् उदकं पिबति स्पृशति वा
रक्तश्वेतसर्षपैर्गोधा त्रिपक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन उद्धृता यावत् पश्यति तावन् मारयति, कृष्णसर्पो वा
विद्युत्प्रदग्धोऽङ्गारो ज्वालो वा विद्युत्प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाऽभिहुतोऽग्निः प्रणीतश्च निस्प्रतीकारो दहति
कर्माराद् अग्निं आहृत्य क्षौद्रेण जुहुयात् पृथक् ।
सुरया शौण्डिकाद् अग्निं मार्गतोऽग्निं घृतेन च
माल्येन च एकपत्न्य्ऽग्निं पुंश्चल्य्ऽग्निं च सर्षपैः ।
दध्ना च सूतिकास्वग्निं आहिताग्निं च तण्डुलैः
चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च
समस्तान् बस्तवसया मानुषेण ध्रुवेण च
जुहुयाद् अग्निमन्त्रेण राजवृक्षस्य दारुभिः ।
एष निष्प्रतिकारोऽग्निर्द्विषतां नेत्रमोहनः
अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते
अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा