श्लोक ०४-०५

Kautilya Arthashastra by Acharya Chankya
सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान्
तेषां कृत उत्साहानां महान्तं सङ्घं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इह एव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति
ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः
अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः
प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः
संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः
उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्
कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः
अनुप्रविष्टा वा एकत्र ग्राहयेयुः
कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः
गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत
पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च
गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यां अधीते राजा, तस्य उपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति
यं चात्रापसर्प उपदेशेन शम्याप्रतोदादीनां अपहर्तारं जानीयात् तं एषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति
पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः
अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन
गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः
पूर्ववच्च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् ।
सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु